वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: जमदग्निर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

कृ꣣ण्व꣢न्तो꣣ व꣡रि꣢वो꣣ ग꣢वे꣣꣬ऽभ्य꣢꣯र्षन्ति सुष्टु꣣ति꣢म् । इ꣡डा꣢म꣣स्म꣡भ्य꣢ꣳ सं꣣य꣡त꣢म् ॥८३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् । इडामस्मभ्यꣳ संयतम् ॥८३२॥

मन्त्र उच्चारण
पद पाठ

कृ꣣ण्व꣡न्तः꣢ । व꣡रि꣢꣯वः । ग꣡वे꣢꣯ । अ꣡भि꣢ । अ꣣र्षन्ति । सुष्टुति꣢म् । सु꣣ । स्तुति꣢म् । इ꣡डा꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । सं꣣य꣡त꣢म् । स꣣म् । य꣡त꣢꣯म् ॥८३२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 832 | (कौथोम) 2 » 2 » 1 » 3 | (रानायाणीय) 4 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

ये सोम अर्थात् तेजस्वी उपासक लोग (गवे)अपने जीवात्मा और इन्द्रियसमूह के लिए (वरिवः) ऐश्वर्य को और (अस्मभ्यम्) हम सखाओं के लिए (संयतम्) संयमयुक्त (इडाम्) भद्र वाणी को (कृण्वन्तः) प्रयुक्त करते हुए (सुष्टुतिम्) उत्तम प्रशस्ति को (अभ्यर्षन्ति) प्राप्त करते हैं ॥३॥

भावार्थभाषाः -

उपासक के आत्मा, मन, बुद्धि, वाणी, प्राण, इन्द्रिय आदि सब दिव्य ऐश्वर्य से युक्त हो जाते हैं और वह अन्यों के प्रति मधुर तथा भद्र वाणी का ही प्रयोग करता हुआ सुप्रशस्ति प्राप्त करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

एते सोमासः तेजस्विनः उपासकाः (गवे) स्वकीयाय जीवात्मने इन्द्रियगणाय च (वरिवः) ऐश्वर्यम् [वरिवः इति धननाम। निघं० २।१०।] किञ्च (अस्मभ्यम्) सखिभ्यो नः (संयतम्) संयमयुक्तां। [संपूर्वात् यम उपरमे धातोः क्विपि स्त्रियां द्वितीयैकवचने रूपम्।] (इडाम्) भद्रां वाचम् [इडा इति वाङ्नाम निघं० १।११।] (कृण्वन्तः) कुर्वन्तः, प्रयुञ्जानाः (सुष्टुतिम्) सुप्रशस्तिम् (अभ्यर्षन्ति) प्राप्नुवन्ति ॥३॥

भावार्थभाषाः -

उपासकस्यात्ममनोबुद्धिवाक्प्राणेन्द्रियादीनि सर्वाण्यपि दिव्यैश्वर्यमयानि जायन्ते, स चान्यान् प्रति मधुरां भद्रामेव वाचं प्रयुञ्जानः सुप्रशस्तिं लभते ॥३॥

टिप्पणी: १. ऋ० ९।६२।३।